ॐ........ॐ.....ॐ.......
शुभं करोति कल्याणं आरोग्यं धनसंपदः । शत्रुबुद्धिविनाशाय दीपज्योतिनमोऽस्तु ते ॥
दीपज्योतिः परब्रह्म दीपज्योति जनार्दनः । दीपो हरतु मे पापं संध्यादीप नमोऽस्तुते ॥
वक्रतुण्ड महाकाय सूर्य कोटी समप्रभा| निर्विघ्नं कुरु मे देव सर्व-कार्येशु सर्वदा॥
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥
गुरुर्ब्रह्मा गुरुर्विष्णु र्गुरुर्देवो महेश्वरः| गुरु साक्षात परब्रह्मा तस्मै श्रीगुरवे नमः ||
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं| विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर -र्ध्यान -गम्यम्| वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणम् त्वमेव । त्वमेव सर्वम् मम देव देव ॥
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं । यत्कृपा तमहं वन्दे परमानन्द माधवम् ॥
रामाय रामभद्राय रामचन्द्राय वेधसे | रघुनाथाय नाथाय सीताया: पतये नमः ।॥
वसुदेवसुतं देवं कंसचाणूरमर्दनम्| देवकीपरमानन्दं कृष्णं वंदे जगद्गुरुम् ||
या देवी सर्वभुतेषु शक्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
सर्व -मङ्गल -मङ्गल्ये शिवे सर्वार्थ -साधिके| शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते |
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि । गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥
शरणागतदीनार्तपरित्राणपरायणे । सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥
ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं । भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् | उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ सर्वेशां स्वस्तिर्भवतु । सर्वेशां शान्तिर्भवतु । सर्वेशां पुर्णंभवतु । सर्वेशां मङ्गलंभवतु ।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् ।
असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय ।
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पुर्णमुदच्यते | पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
सचिदानंद भगवन की जय !
पुरुषोत्तम श्री रामचंद्र की जय !
पवनसूत हनुमान की जय !
गंगा मैया की जय !
नमः पार्वती पतये हर हर महादेव !
https://ekamnityam-yoga.blogspot.com/2019/02/hanuman-chalisa.html
No comments:
Post a Comment